Posts

Showing posts from February, 2018

संस्कृतस्य महत्वम्

        संस्कृते नाम दैवी वागन्वाख्याता महर्षिभिः । संस्कृतभाषैवास्ति विश्वस्य प्राचीनतमा भाषा । संस्कृता पतिष्कृता व्याकरणादि दोषरहिता भाषा संस्कृत भाषैति कथ्यते । अपरण्च सा सर्वासामपि भाषायां जननी । आसीदियम् पुरा भारतीयानाम् लोकप्रिया जनभाषा । ऋग्वेद संसारस्य प्रथमः ग्रन्थः इति सर्वे प्राच्यप्रतीच्यै पण्डितैश्च एकस्वरेण स्वीकृतम् स वेदः संस्कृतभाषामेव   संशोभते । अतः सिद्धं तस्याः आदि भाषात्वम्   । सर्वासां भारतीयभाषाणां इमं जननी वर्तते ।             भाषयानयै वाद्यापि आर्यधर्मस्य परिपुष्टिर्जायते   । पुरा न केवलं भारते अपितु विभिन्नेषु अन्यान्य देशेषु प्रचारातिशयेण प्रयतितासीदेषा संस्कृत भाषा । सर्वे जनाः तामेव वदन्ति स्म । अस्यां भाषायामेकस्य शब्दस्यानेके समानार्थ जायन्ते , शब्दरचना शक्तिः अपि अस्य अर्श्येव वर्तते । सर्वास्वत्यासु   प्रान्तीयभाषासु   सा जीवनरसं सण्चारयितुं क्षमते । अस्याः ज्ञानं अन्यासां भाषाणां ज्ञाने सहायं भवन्ति । यतो अस्याः शब्दकोशो विशालः सुसम्पन्नश्यास्ति । अस्माकं राष्ट्रभाषया शब्दकोषः नवति प्रतिशतः तया एव परिपुरितः । नास्ति कोअपि एतादृशो भावो विषय