संस्कृतस्य महत्वम्



        संस्कृते नाम दैवी वागन्वाख्याता महर्षिभिः । संस्कृतभाषैवास्ति विश्वस्य प्राचीनतमा भाषा । संस्कृता पतिष्कृता व्याकरणादि दोषरहिता भाषा संस्कृत भाषैति कथ्यते । अपरण्च सा सर्वासामपि भाषायां जननी । आसीदियम् पुरा भारतीयानाम् लोकप्रिया जनभाषा । ऋग्वेद संसारस्य प्रथमः ग्रन्थः इति सर्वे प्राच्यप्रतीच्यै पण्डितैश्च एकस्वरेण स्वीकृतम् स वेदः संस्कृतभाषामेव  संशोभते । अतः सिद्धं तस्याः आदि भाषात्वम्  । सर्वासां भारतीयभाषाणां इमं जननी वर्तते ।
            भाषयानयै वाद्यापि आर्यधर्मस्य परिपुष्टिर्जायते  । पुरा न केवलं भारते अपितु विभिन्नेषु अन्यान्य देशेषु प्रचारातिशयेण प्रयतितासीदेषा संस्कृत भाषा । सर्वे जनाः तामेव वदन्ति स्म । अस्यां भाषायामेकस्य शब्दस्यानेके समानार्थ जायन्ते , शब्दरचना शक्तिः अपि अस्य अर्श्येव वर्तते । सर्वास्वत्यासु  प्रान्तीयभाषासु  सा जीवनरसं सण्चारयितुं क्षमते । अस्याः ज्ञानं अन्यासां भाषाणां ज्ञाने सहायं भवन्ति । यतो अस्याः शब्दकोशो विशालः सुसम्पन्नश्यास्ति । अस्माकं राष्ट्रभाषया शब्दकोषः नवति प्रतिशतः तया एव परिपुरितः । नास्ति कोअपि एतादृशो भावो विषयो वा यो हि नाभिव्यक्तिभाषानि भाषयानया । एतस्यां भाषायां तज्ज्ञानं विभ्राजते यत्सदृशं न किमपि पूतम् । तत्लब्धवा सर्वे अपि संशया उच्छिन्नाः भवन्ति परा शान्तिश्चासायते ।
               संस्कृतभाषायां यथाध्यात्मिकं ज्ञानं विपुलं विशदण्च तथैवाधिभौतिकमपि ज्ञानं प्रचुरम् । मानवजीवनस्य चतुर्पुरुषार्थाः स्वीकृताः विद्वद्भिः । अर्थमन्तरेण जीवनं व्यर्थम् । अर्थस्योपार्जन् केन प्रकारेण कार्यं कथं स रमणीयः वर्धनीयश्च एतेषां विषयाणां प्रतिपादकग्रन्थाः अपि सुलभाः अस्यां भाषायां । अर्थस्य प्रयोजनं अस्ति कामानामुपभोगः । भाषायामस्यांतमप्यधिकृत्य महर्षि वात्स्यानेन कामशयस्त्रमिति लिखितमस्ति । धर्ममोक्षविषयकाः ग्रन्थाः सन्ति पुष्कलाः ।
         संस्कृत भाषायां यस्य धर्मस्य निरुपणं कृतमस्ति स प्राणिमात्रस्य सुह्रत् –
              सर्वे अपि सुखिनः सन्तु सर्वे सन्तु निरामयाः 
               सर्वे भद्राणि पश्यन्तु , मा कश्चित दुखभाग्भवेत् ।
संस्कृत भाषायां प्रतिप्रादितार्थधर्मस्यत्वा अहिंसासत्यण्चस्तः सदाचारतपस्त्याग शुचितादयः तस्य प्राणाः इव वर्तन्ते । न केवलतार्थधर्मावलम्बिनामेव अपितु अन्यसम्प्रदाय सुषामपि सर्वे प्राचीन ग्रन्थाः संस्कृत भाषायाश्रित्यैव लिखिता प्राप्यते।
                संस्कृतभाषयाः साहित्य गुरुतमम् । अपि च एतदीयायां शब्दावल्यामपि यद् व्यापकत्वं यद् गम्भीरत्वं यद् शिक्षार्थकत्वं यद् माधुर्यं यद् प्रसादत्वं यद् ओजस्तवं यद् सुक्ष्मत्वं वर्तते न तत् कस्यामपि अन्य भाषायां ।
                      संस्कृत साहित्ये वैदिक लौकिक भेदेव द्विविधम् । वैदिक साहित्ये संहिताब्राह्म-
णारण्यकोपनिषदादयः वेदांगानि  चान्तर्भवन्ति । लौकिके च दर्शनपुराणरामायण महाभारत
काव्यादीनि सन्निविशन्ते । संस्कृतभाषायाः साहित्यं तस्याः व्यापकतां गौरवं सर्वाड़्गीणताण्च प्रकटी करोति ।
           सत्यप्येताद्दशे  महत्वे भाषाया अस्याः अवनतिरेवा धावलोक्यते । मृतः भाषेव लक्ष्यते सा अतो अस्याः समुद्धाराय अस्माभिरपि प्रयतिसम्यमिति ।

Comments

Post a Comment

Popular posts from this blog

ऋग्वेद एक संक्षिप्त परिचय

सोम सूक्त

विष्णु सूक्त