काव्यस्य निर्माणे भेदाः

काव्यस्य निर्माणे भेदाः      प्रश्नः ;- कविसृष्टौ  ब्रह्मासृष्टौ च को भेदो अस्ति ?
उत्तर -      ‘’अपारे काव्यसंसारे  कविरेकः प्रजापतिः  ।
                 यथास्मै रोचते विश्वं तथेदं परिवर्तते  ।‘’
भेदः निरुप्यते  । मम्मटाचार्येण कथ्यते –
             ‘’नियतिक्रतनियमरहितां  ह्रदिकामयीमनन्यपरतां
              नवरसरुचिरां निर्मितिमादधती भारती कवेजयति ।‘’
      कविसृष्टौ  ब्रह्मसृष्टौ च प्रथमः भेदः एषः वर्तते  यं कविसृष्टिः नियत्यासाधारणधर्मेण कृतः यः नियमरहितां  ।किन्तु ब्रह्मासृष्टिः प्रकृत्या कृतः नियमसहितां ।नियति अस्य शब्दस्य द्वौ अर्थौ वर्तते । प्रथमः नियम्य सौरभादयो धर्मा अनया इति तितिरसाधारणो धर्मः पद्मत्वादिरुपः । यथा ब्रह्मसृष्टि  विश्वकर्मा ब्रह्मा कस्मिश्चिदपि विशिष्टवस्तुनि ते मौलिकगुणरुपौ वर्णयते परं कविः कल्पनालोके गम्यति सः स्वकल्पनानुरुपः स्त्रियः मुखे कमलासौरभस्य तस्याः नेत्रयोः कमलस्य सौन्दर्यस्य निर्माणे समर्थयते । अतः कविसृष्टिः नियत्या रचित नियमेन रहिताम् ।
      ‘’ नियति ‘’ अस्य शब्दस्य द्वितीयो अर्थो अदृष्टो अस्ति । ब्रह्मसृष्टौ नरेण स्वकीयं पूर्वजन्मास्यानुरुपः सुख दुख प्राप्यते । किन्तु कविना स्वेच्छया पात्राणां चरित्रं सुख्दुखयोः अवस्थायां परिवर्तते ।
          ब्रह्मसृष्टौ सुख्दुखयोः समाविष्टते । न कोअपि नराः यान् दुखं न भवन्ति ।यथा –
       ‘’सुखमापतितं सेव्यं दुखमापतितं तथा ।
        चक्रवत्परिवर्तन्ते  दुखानि च सुखानि च ।‘’
किन्तु कविसृष्टौ एव सुखमेव प्राप्नोति । तस्मिन अस्माभिः करुणस्य अवसरे हर्षस्य एव अनुभूयते । ब्रह्मासृष्टिः परमानूपादानकर्मादिभिः नियंत्रिते  । एतान् बिना सृष्टेः निर्माणं न संभवति  । किन्तु कविसृष्टेः हेतोः कविप्रतिभायाः आवश्यकता भवति ।

              कविसृष्टौ  ब्रह्मसृष्टौ च चतुर्थ भेदः एषः वर्तते । यतः ब्रह्मसृष्टौ केवलं मधुराम्ललवणकटुकषायतिक्तेति  षडरसाः भवन्ति तान् च ते अपि रुचिकराः । किन्तु कविसृष्टौ रौद्रकरुणश्रृंगारादि नवरसाः भवन्ति तान् च पठन पाठने रसास्वादने मनस्तु आल्हादितम् अपि अस्ति ।   

Comments

Popular posts from this blog

ऋग्वेद एक संक्षिप्त परिचय

सोम सूक्त

विष्णु सूक्त